top of page

कल्किस्तोत्रम्

                                             श्रीगणेशाय नमः ।

 

 सुशान्तोवाच ।

जय हरेऽमराधीशसेवितं तव पदांबुजं भूरिभूषणम् ।

कुरु ममाग्रतः साधुसत्कृतं त्यज महामते मोहमात्मनः ॥ १॥

तव वपुर्जगद्रूपसम्पदा विरचितं सतां मानसे स्थितम् ।

रतिपतेर्मनो मोहदायकं कुरु विचेष्टितं कामलंपटम् ॥ २॥

 तव यशोजगच्छोकनाशकं मृदुकथामृतं प्रीतिदायकम् ।

स्मितसुधोक्षितं चन्द्रवन्मुखं तव करोत्यलं लोकमङ्गलम् ॥ ३॥

 

मम पतिस्त्वयं सर्वदुर्जयो यदि तवाप्रियं कर्मणाऽऽचरेत् ।

जहि तदात्मनः शत्रुमुद्यतं कुरु कृपां न चेदीदृगीश्वरः ॥ ४॥

 

महदहंयुतं पञ्चमात्रया प्रकृतिजायया निर्मितं वपुः ।

तव निरीक्षणाल्लीलया जगत्स्थितिलयोदयं ब्रह्मकल्पितम् ॥ ५॥

 

भूवियन्मरुद्वारितेजसां राशिभिः शरीरेन्द्रियाश्रितैः ।

त्रिगुणया स्वया मायया विभो कुरु कृपां भवत्सेवनार्थिनाम् ॥ ६॥

 

तव गुणालयं नाम पावनं कलिमलापहं कीर्तयन्ति ये ।

भवभयक्षयं तापतापिता मुहुरहो जनाः संसरन्ति नो ॥ ७॥

 

तव जनुः सतां मानवर्धनं जिनकुलक्षयं देवपालकम् ।

कृतयुगार्पकं धर्मपूरकं कलिकुलान्तकं शं तनोतु मे ॥ ८॥

 

मम गृहं पतिपुत्रनप्तृकं गजरथैर्ध्वजैश्चामरैर्धनैः ।

मणिवरासनं सत्कृतिं विना तव पदाब्जयोः शोभयन्ति किम् ॥ ९॥

 

तव जगद्वपुः सुन्दरस्मितं मुखमनिन्दितं सुन्दरत्विषम् ।

यदि न मे प्रियं वल्गुचेष्टितं परिकरोत्यहो मृत्युरस्त्विह ॥ १०॥

 

हयवर भयहर करहरशरणखरतरवरशर दशबलदमन ।

जय हतपरभरभववरनाशन शशधर शतसमरसभरमदन ॥ ११॥

 

इति श्रीकल्किपुराणे सुशान्ताकृतं कल्किस्तोत्रं सम्पूर्णम् ।

नमो नमः

एक भारत, नेक भारत, अनेक परंपराएं

  • YouTube
  • Facebook
  • Whatsapp
  • Instagram
  • Twitter
  • LinkedIn

© 2025 संस्कृत का उदय

bottom of page